. श्री दक्षिणामूर्ति नवरत्न मलिक स्तोत्रम ..
मूलेवटस्य मुनिपुङ्गवसेव्यमानं
मुद्राविशेश्हमुकुलीकृतपाणिपद्मम.ह .
मन्दस्मितं मधुरवेश्हमुदारमाद्यं
तेजस्तदस्तु हृदि मे तरुणेन्दुचूडम.ह .. १..
शान्तं शारदचन्द्रकान्तिधवळं चन्द्राभिरमाननं
चन्द्रार्कोपमकान्तिकुण्डलधरं चन्द्रावदातांशुकम.ह .
वीणापुस्तकमक्शसूत्रवलयं व्याख्यानमुद्रांकरै\-
र्बिभ्राणं कलये हृदा मम सदा
शास्तारमिश्ह्टार्थदम.ह .. २..
कर्पूरपात्रमरविन्ददळायताक्शं
कर्पूरशीतलहृदं करुणाविलासम.ह .
चन्द्रार्धशेखरमनन्तगुणाभिराम\-
मिन्द्रादिसेव्यपदपङ्कजमीशमीडे .. ३..
द्युद्रोधः स्वर्णमयासनस्थं
मुद्रोल्लसद बाहुमुदारकायम.ह .
सद्रोहिणीनाथकळावतंसं
भद्रोदधिं कञ्चन चिन्तयामः .. ४..
उद्यद्भास्करसन्निभं त्रिणयनं श्वेताङ्गरागप्रभं
बालं मौञ्जिधरं प्रसन्नवदनं न्यग्रोधमूलेस्थितम.ह .
पिङ्गाक्शं मृगशावकस्थितिकरं सुब्रह्मसूत्राकृतिम.ह
भक्तानामभयप्रदं भयहरं श्रीदक्शिणामूर्तिकम.ह .. ५..
श्रीकान्तद्रुहिणोपमन्यु तपन स्कन्देन्द्रनन्द्यादयः
प्राचीनागुरवो.अपियस्य करुणालेशाद्गतागौरवम.ह .
तं सर्वादिगुरुं मनोज्ञवपुश्हं मन्दस्मितालङ्कृतं
चिन्मुद्राकृतिमुग्धपाणिनळिनं चित्तं शिवं कुर्महे .. ६..
कपर्दिनं चन्द्रकळावतंसं
त्रिणेत्रमिन्दुपतिमाननोज्वलम.ह .
चतुर्भुजं ज्ञानदमक्शसूत्र\-
पुस्ताग्निहस्तं हृदि भावयेच्च्हिवम.ह .. ७..
वामोरूपरिसंस्थितां गिरिसुतामन्योन्यमालिंगितां
श्यामामुत्पलधारिणी शशिनिभांचालोकयन्तं शिवम.ह .
आश्लिश्ह्टेन करेण पुस्तकमधो कुंभं सुधापूरितं
मुद्रां ज्ञानमयीं दधानमपरैर्मुक्ताक्शमालां भजे .. ८..
वटतरुनिकटनिवासं पटुतरविज्ञानमुद्रितकराब्जम.ह .
कञ्चनदेशिकमाद्यं कैवल्यानन्दकन्दळं वन्दे .. ९..
इति श्री दक्शिणामूर्ति नवरत्नमाला स्तोत्रं संपूर्णम.ह ..
रविवार, 31 जुलाई 2016
श्री दक्षिणामूर्ति नवरत्न मलिक स्तोत्रम .
दक्षिणामूर्ति वर्णमालास्तोत्रम
दक्षिणामूर्ति वर्णमालास्तोत्रम
आऊंमित्येतद्यस्य बुधैर्नाम गृहीतं
यद्भासेदं भाति समस्तं वियदादि .
यस्याज्ञातः स्वस्वपदस्था विधिमुख्या\-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. १..
नम्राण्गाणां भक्तिमतां यः पुरुषार्था\-
न्दत्वा क्षिप्रं हन्ति च तत्सर्वविपत्तीः .
पादाम्भोजाधस्तनितापस्मृतिमीशं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. २..
मोहध्वस्त्यै वैणिकवैयासिकिमुख्याः
संविन्मुद्रापुस्तकवीणाक्षगुणान्यम .
हस्ताम्भोजैर्बिभ्रतमाराधितवन्त\-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. ३..
भद्रारूढं भद्रदमाराधयितृणां
भक्तिश्रद्धापूर्वकमीशं प्रणमन्ति .
आदित्या यं वाञ्च्हितसिद्ध्यै करुणाब्धिं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. ४..
गर्भान्तःस्थाः प्राणिन एते भवपाश\-
च्च्हेदे दक्षं निश्चितवन्तः शरणं यम .
आराध्याण्घ्रिप्रस्फुरदम्भोरुहयुग्मं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. ५..
वक्त्रं धन्याः संसृतिवार्धेरतिमात्रा\-
द्भीताः सन्तः पूर्णशशाण्कद्युति यस्य .
सेवेन्ते.अध्यासीनमनन्तं वटमूलं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. ६..
तेजःस्तोमैरण्गदसंघट्टितभास्व\-
न्माणिक्योत्थैर्भासितविश्वो रुचिरैर्यः .
तेजोमूर्तिं खानिलतेजःप्रमुखाब्धिं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. ७..
दध्याज्यादिद्रव्यककर्माण्यखिलानि
त्यक्त्वा काण्क्षा कर्मफलेष्वत्र करोति .
यज्जिज्ञासां रूपफलार्थी क्षितिदेव\-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. ८..
क्षिप्रं लोके यं भजमानः पृथुपुण्यः
प्रध्वस्ताधिः प्रोज्झितसंसृत्यखिलार्तिः .
प्रत्यग्भूतं ब्रह्म परं सन्रमते य\-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. ९..
णानेत्येवं यन्मनुमध्यस्थितवर्णा\-
न्भक्ताः काले वर्णगृहीत्यै प्रजपन्तः .
मोदन्ते संप्राप्तसमस्तश्रुतितन्त्रा\-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. १०..
मूर्तिश्च्हायानिर्जितमन्दाकिनिकुन्द\-
प्रालेयाम्भोराशिसुधाभूतिसुरेभा .
यस्याभ्राभा हासविधौ दक्षशिरोधि\-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. ११..
तप्तस्वर्णच्च्हायजटाजूटकटाह\-
प्रोद्यद्वीचीवल्लिविराजत्सुरसिन्धुम .
नित्यं सूक्ष्मं नित्यनिरस्ताखिलदोषं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. १२..
येन ज्ञातेनैव समस्तं विदितं स्या\-
द्यस्मादन्यद्वस्तु जगत्यां शशशृण्गम .
यं प्राप्तानां नास्ति परं प्राप्यमनादिं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. १३..
मत्तो मारो यस्य ललाटाक्षिभवाग्नि\-
स्फूर्जत्कीलप्रोषितभस्मीकृतदेहः .
तद्भस्मासीद्यस्य सुजातः पटवास\-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. १४..
ह्यम्भोराशौ संसृतिरूपे लुठतां त\-
त्पारं गन्तुं यत्पदभक्तिर्दृढनौका .
सर्वाराध्यं सर्वगमानन्दपयोनिधिं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. १५..
मेधावी स्यादिन्दुवतंसं धृतवीणं
कर्पूराभं पुस्तकहस्तं कमलाक्षम .
चित्ते ध्यायन्यस्य वपुर्द्राण्निमिषार्धं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. १६..
धाम्नां धाम प्रौढरुचीनां परमं य\-
त्सूर्यादीनां यस्य स हेतुर्जगदादेः .
एतावान्यो यस्य न सर्वेश्वरमीड्यं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. १७..
प्रत्याहारप्राणनिरोधादिसमर्थै\-
र्भक्तैर्दान्तैः संयतचित्तैर्यतमानैः .
स्वात्मत्वेन ज्ञायत एव त्वरया य\-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. १८..
ज्ञांशीभूतान्प्राणिन एतान्फलदाता
चित्तान्तःस्थः प्रेरयति स्वे सकले.अपि .
कृत्ये देवः प्राक्तनकर्मानुसरः सं\-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. १९..
प्रज्ञामात्रं प्रापितसंबिन्निजभक्तं
प्राणाक्षादेः प्रेरयितारं प्रणवार्थम .
प्राहुः प्राज्ञा विदितानुश्रवतत्त्वा\-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. २०..
यस्यांज्ञानादेव नृणां संसृतिबोधो
यस्य ज्ञानादेव विमोक्षो भवतीति .
स्पष्टं ब्रूते वेदशिरो देशिकमाद्यं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. २१..
च्हन्ने.अविद्यारूपपटेनैव च विश्वं
यत्राध्यस्तं जीवपरेशत्वमपीदम .
भानोर्भानुष्वम्बुवदस्ताखिलभेदं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. २२..
स्वापस्वप्नौ जाग्रदवस्थापि न यत्र
प्राणश्वेतः सर्वगतो यः सकलात्मा .
कूटस्थो यः केवलसच्चित्सुखरूप\-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. २३..
हा हेत्येवं विस्मयमीयुर्मुनिमुख्या
ज्ञाते यस्मिन्स्वात्मतयानात्मविमोहः .
प्रत्यग्भूते ब्रह्मणि यातः कथमित्थं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि .. २४..
यैषा रम्यैर्मत्तमयूराभिधवृत्तै\-
रादौ क्लृप्ता यन्मनुवर्णैर्मुनिभण्गी .
तामेवैतां दक्षिणवक्त्रः कृपयासा\-
वूरीकुर्याद्देशिकसम्राट परमात्मा .. २५..
इति श्रीमत्परमहंसपरिव्रजकाचार्यस्य
श्रिगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्च्हंकरभगवत्पाद कृतौ
. श्रीदक्षिणामूर्तिवर्णमालास्तोत्रं संपूर्णम .
श्री दशिणामूर्ति स्तोत्रम
श्री दशिणामूर्ति स्तोत्रम
अपासकानां यदुपासनीयमुपात्तवासं वटशाखिमूले ।
तद्दाम दाशिण्यजुषा स्वमूर्त्या जागर्तु चित्ते मम बोधरूपम ॥ १ ॥
अद्राशमशीणदयानिधानमाचार्यमाद्यं वटमूलभागे ।
मौनेन मन्दस्मितभूषितेन महर्षिलोकस्य तमो नुदन्तम ॥ २ ॥
विद्राविताशेषतमोगणेन मुद्राविशेषेण मुहुर्मुनीनाम ।
निरस्य मायां दयया विधत्ते देवो महांस्तत्त्वमसीति बोधम ॥ ३ ॥
अपारकारुण्यसुधातरङ्गैरपाङ्गपातैरवलोकयन्तम ।
कठोरसंसारनिदाघतप्तान्मुनीनहं नौमि गुरुं गुरूणाम ॥ ४ ॥
ममाद्यदेवो वटमूलवासी कृपाविशेषात्कृतसन्निधानः ।
ओंकाररूपामुपदिश्य विद्यामाविद्यकध्वान्तमपाकरोतु ॥ ५ ॥
कलाभिरिन्दोरिव कल्पिताङ्गं मुक्ताकलापैरिव बद्दमूर्तिम ।
आलोकये देशिकमप्रमेयमनाद्यविद्यातिमिरप्रभातम ॥ ६ ॥
स्वदशजानुस्थितवामपादं पादोदरालंकृतयोगपट्टम ।
अपस्मृतेराहितपादमङ्गे प्रणौमि देवं प्रणिधानवन्तम ॥ ७ ॥
तत्त्वार्थमन्तेवसतामृषीणां युवा.अपि यः सन्नुपदेष्टुमीष्टे ।
प्रणौमि तं प्राक्तनपुण्यजालैराचार्यमाश्चर्यगुणाधिवासाम ॥ ८ ॥
एकेन मुद्रां परशुं करेण करेण चान्येन मृगं दधानः ।
स्वजानुविन्यस्तकरः पुरस्तादाचार्यचूडामणिराविरस्तु ॥ ९ ॥
आलेपवन्तं मदनाङ्गभूत्या शार्दूलकृत्त्या परिधानवन्तम ।
आलोकये कञ्चन देशिकेन्द्रमघ्य़ानवाराकरबाडवाग्निम ॥ १० ॥
चारुस्मित सोमकलावतंसं वीणाधरं व्यक्तजटाकलापम ।
उपासते केचन योगिनस्त्वामुपात्तनादानुभवप्रमोदम ॥ ११ ॥
उपासते यं मुनयः शुकाद्या निराशिषो निर्ममताधिवासाः ।
तं दशिणामूर्तितनुं महेशमुपास्महे मोहमहार्तिशान्त्यै ॥ १२ ॥
कान्त्या निन्दितकुन्दकन्दलवपुर्न्यग्रोधमूले वस ॓-॓
न्कारुण्यामृतवारिभिर्मुनिजनं संभावयन्वीशितैः ।
मोहध्वान्तविभेदनं विरचयन्बोधेन तत्तादृशा
देवस्तत्त्वमसीति बोधयतु मां मुद्रावता पाणिना ॥ १३ ॥
अगौरगात्रैरललाटनेत्रैरशान्तवेषैरभुजङ्गभूषैः ।
अबोधमुद्रैरनपास्तनिद्रैर्पूर्णकामैरमरेरलं नः ॥ १४ ॥
दैवतानि कति सन्ति चावनौ नैव तानि मनसो मतानि मे ।
दीशितं जडधियामनुग्रहे दशिणाभिमुखमेव दैवतम ॥ १५ ॥
मुदिताय मुग्धशशिनावतंसिने भसितावलेपरमणीयमूर्तये ।
जगदीन्द्रजालरचनापटियसे महसे नमो.अस्तु वटमूलवासिने ॥ १६ ॥
व्यालम्बिनीभिः परितो जटाभिः कलावशेषेण कलाधरेण ।
पश्यल्ललाटेन मुखेन्दुना च प्रकाशसे चेतसि निर्मलानाम ॥ १७ ॥
उपासकानां त्वमुमासहायः पूर्णेन्दुभावं प्रकटीकरोषि ।
उअदद्य ते दर्शनमात्रतो मे द्रवत्यहो मानसचन्द्रकान्तः ॥ १८ ॥
यस्ते प्रसन्नामनुसन्दधानो मूर्तिं मुदा मुग्धश्शाङ्कमौलेः ।
ऐश्वर्यमायुर्लभते च विद्यामन्ते च वेदान्तमहारहस्यम ॥ १९ ॥
॥ दशिणामूर्तिस्तोत्रं संपूर्णम ॥
श्रीदक्षिणामूर्तिस्तोत्रम्
~ श्रीदक्षिणामूर्तिस्तोत्रम् ~
विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया ।
यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं
तस्मै श्रीगुरुमूर्तये नमः इदं श्रीदक्षिणामूर्तये ॥ १ ॥
जो अपने ह्रदय स्थित दर्पणमें दृश्यमान नगरी-सदृश विश्व को निद्राद्वारा स्वप्नकी भाँति मायाद्वारा बाहर प्रकट हुए की तरह आत्मामें देखते हुए ज्ञान होने पर अथवा निद्रा भांग होने पर अपने अद्वितीय आत्माका साक्षात्कार करते हैं, उन श्रीगुरुस्वरुप श्रीदक्षिणामूर्ती को यह मेरा नमस्कार है ॥ १ ॥
बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं शनै-
र्मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् ।
मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया
तस्मै श्रीगुरुमूर्तये नमः इदं श्रीदक्षिणामूर्तये ॥ २ ॥
जिन्होंने महायोगीकी तरह अपनी इच्छासे सृष्टिके पूर्व निर्विकल्प-रुपसे स्थित इस जगत् को बीजके भीतर स्थित अङ्कुरकी भाँति मायाद्वारा कल्पित देश, काल और धारणाकी विचित्रतासे चित्रित किया है तथा मायावी-सदृश जँभाई लेते हुए-से दीखते हैं, उन श्रीगुरुस्वरुप श्रीदक्षिणामूर्तिको मेरा नमस्कार है ॥ २ ॥
यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते
साक्षात् तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् ।
यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौ
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ३ ॥
जिसका सदात्मक स्फुरण ही असत्-तुल्य भासित होता है, जो अपने आश्रितोंको 'साक्षात् तत्त्वमसि' अर्थात् 'तुम साक्षात् वही ब्रह्म हो' इस वेद-वाक्यद्वारा ज्ञान प्रदान करते हैं तथा जिनका साक्षात्कार करने से पुनः भवसागरमें आवागमन नहीं होता, उन श्रीगुरुस्वरुप श्रीदक्षिणामूर्तिको यह मेरा नमस्कार है ॥ ३ ॥
नानाछिद्रघटोदरस्थितमहादीपप्रभाभास्वरं
ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते ।
जानामीति तमेव भान्तमनुभात्येतत् समस्तं जगत्
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ४ ॥
अनेक छिद्रोंवाले घटके भीतर स्थित विशाल दीपककी उज्जवल प्रभाके समान ज्ञान जिनके नेत्र आदि इन्द्रियोंद्वारा बाहर प्रसरित होता है तथा जैसा मैं समझता हूँ कि उसीके प्रकाशित होनेपर यह सम्पूर्ण जगत् प्रकाशित होता है, उन श्रीदक्षिणामूर्तिको यह मेरा नमस्कार है ॥ ४ ॥
देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिँ च शून्यं विदुः
स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः ।
मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ५ ॥
भ्रमित हुए बहुवादी-शून्यवादी बौद्ध आदि देह, प्राण, इन्द्रियोंको तथा तीव्र बुद्धिको भी स्त्री, बालक, अंध और जड़की तरह शून्य मानते हैं तथा 'अहं' को ही प्रधानता देते हैं, ऐसे माया-शक्तिके विलाससे कल्पित महामोहका संहार करनेवाले उन श्रीगुरुस्वरुप श्रीदक्षिणामूर्तिको यह मेरा नमस्कार है ॥ ५ ॥
राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादनात्
सन्मात्रः करणोपसंहरणतो योऽभूत् सुषुप्तः पुमान् ।
प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते
तस्मै श्रीगुरुमूर्तये नमः इदं श्रीदक्षिणामूर्तये ॥ ६ ॥
जो पुरुष राहुद्वारा ग्रस्त सूर्य-चन्द्रके समान मायाद्वारा समाच्छादित होनेके कारण सन्मात्रका इन्द्रियोंद्वारा उपसंहार करके सो गया था, उसे निद्रामें लीन होनेपर अथवा जागनेके पश्चात जो प्रत्यभिज्ञातुल्य भासित होता है, उन श्रीगुरुस्वरुप श्रीदक्षिणामूर्ति को मेरा नमस्कार है ॥ ६ ॥
बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि
व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा ।
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ७ ॥
जो अपने भक्तोंके समक्ष भद्रा मुद्राद्वारा बाल, युवा, वृद्ध, जाग्रत, स्वप्न, सुषुप्ति तथा सभी व्यावर्तित अवस्थाओंमें भी अनुवर्तमान एवं सदा 'अहं' रुपसे अन्तःकरणमें स्फुरमाण स्वात्माको प्रकट करते हैं, उन श्रीगुरुस्वरुप श्रीदक्षिणामूर्तिको यह मेरा नमस्कार है ॥ ७ ॥
विश्वं पश्यति कार्यकारणतया स्वस्वामिसम्बन्धतः
शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः ।
स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामित-
स्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ८ ॥
जिनकी मायाद्वारा परिभ्रमित हुआ यह पुरुष स्वप्न अथवा जाग्रत-अवस्थामें विश्वको कार्य-कारण, स्वामी-सेवक, शिष्य-आचार्य तथा पिता-पुत्रके भेदसे देखता है, उन श्रीगुरुस्वरुप श्रीदक्षिणामूर्तिको यह नमस्कार है ॥ ८ ॥
भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमा-
नित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् ।
नान्यत्किञ्चन विद्यते विमृशतां यस्मात् परस्माद्विभो-
स्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ९ ॥
जिनकी पृथ्वी, जल, अग्नि, वायु, आकाश, सूर्य, चन्द्रमा, पुरुष__ये आठ मूर्तियाँ ही इस चराचर जगतके रुपमें प्रकाशित हो रही है तथा विचारशीलोंके लिये जिन परात्पर विभुके अतिरिक्त अन्य नहीं हैं, उन श्रीगुरुस्वरुप श्रीदक्षिणामूर्तिको यह मेरा नमस्कार है ॥ ९ ॥
सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिन् स्तवे
तेनास्य श्रवणात् तदर्थमननाद्धयानाच्च संकीर्तनात् ।
सर्वात्मत्वमहाविभूतिसहितं स्यादिश्वरत्वं स्वतः
सिध्येत् तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् ॥ १० ॥
चूँकि इस स्तोत्रमें यह स्पष्ट किया गया है कि यह चराचर जगत् सर्वात्मस्वरुप है, इसलिये इसका श्रवण, इसके अर्थका मनन, ध्यान और संकीर्तन करनेसे स्वतः सर्वात्मस्वरुप महाविभूतिसहित ईश्वरत्वकी प्राप्ति होती है, पुनः आठ रुपोंमें परिणत हुआ स्वछन्द ऐश्वर्य भी सिद्ध हो जाता है ॥ १० ॥
वटविटपिसमीपे भूमिभागे निषण्णं
सकलमुनिजनानां ज्ञानदातारमारात् ।
त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं
जननमरणदुःखच्छेददक्षं नमामि ॥ ११ ॥
जो वटवृक्षके समीप भूमिभागपर स्थित हैं, निकट बैठे हुए समस्त मुनिजनोंको ज्ञान प्रदान कर रहे हैं, जन्म-मरणके दुःखका विनाश करनेमें प्रवीण हैं, त्रिभुवनके गुरु और ईश हैं, उन भगवान् दक्षिणामूर्तिको मैं नमस्कार करता हूँ ॥ ११ ॥
चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुर्युवा ।
गुरोस्तु मौनं व्याख्यानं शिष्यास्तु छिन्नसंशयाः ॥ १२ ॥
आश्चर्य तो यह है कि उस वटवृक्षके नीचे सभी शिष्य वृद्ध हैं और गुरु युवा हैं। साथही गुरुका व्याख्यान भी मौन भाषामें है, किंतु उसीसे शिष्योंके संशय नष्ट हो गये हैं ॥ १२ ॥
॥ इति श्रीदक्षिणामूर्तिस्तोत्रं सम्पूर्णम् ॥
॥ इस प्रकार श्रीदक्षिणामूर्तिस्तोत्र सम्पूर्ण हुआ ॥
~ ॐ श्रीमहागुरुवे नमः ~
दक्षिणामूर्ति स्तुति
दक्षिणामूर्ति स्तुति
मौनव्याख्याप्रकटितपरब्रह्मतत्त्वं युवानं
वर्षिष्टान्ते वसदृषिगणैरावृतं ब्रह्मनिष्ठैः ।
आचार्येन्द्रं करकलितचिन्मुद्रमानन्दरूपं
स्वात्मारामं मुदितवदनं दशिणामूर्तिमीडे ॥
वटविटपिसमीपे भूमिभागे निषण्णं
सकलमुनिजनानां घ्य़ानदातारमारात ।
त्रिभुवनगुरुमीशं दशिणामूर्तिदेवं
जननमरणदुःखच्च्हेददशं नमामि ॥
चित्रं वटतरोर्मूले वृद्दाः शिष्या गुरुर्युवा ।
गुरोस्तु मौनं व्याख्यानं शिष्यास्तु च्हिन्नसंशयाः ॥
निधये सर्वविद्यानां भिषजे भवरोगिणाम ।
गुरवे सर्वलोकानां दशिणामूर्तये नमः ॥
ऒं नमः प्रणवार्थाय शुद्दघ्य़ानैकमूर्तये ।
निर्मलाय प्रशान्ताय दशिणामूर्तये नमः ॥
दक्शिणामूर्ति गायत्रि
ऒं तत्पुरुषाय विद्महे विद्या वासाय धीमहि ।
तन्नो दक्शिणामूर्तिः प्रचोदयात ॥
शनिवार, 30 जुलाई 2016
चन्द्रमौलीश्वर वर्णमाला स्तुतिः
चन्द्रमौलीश्वर वर्णमाला स्तुतिः
श्रीपतिप्रमुखादेवाः स्वेप्सितार्थस्य सिद्दये ।
यं स्तुवन्ति समर्चन्ति नमन्ति च भजामि तं ॥ १ ॥
चंचच्चन्द्रकलाचूडः चन्द्रिकाधवलः शिवः ।
प्रत्यञ्चं स्फोरयत्याशु चञ्चले हृदये मम ॥ २ ॥
द्रवी भवति यस्यैव हृदयं स्मृतिमात्रतः ।
द्रप्सवन्मधुरां वाचां दृढयत्वनिशं स नः ॥ ३ ॥
मौले मन्दाकिनि यस्य मालती मालिका निभा ।
मौनिमानसहंसो.अयं मौढ्यं हरतु नः शिवः ॥ ४ ॥
लीनं योगिमनो यत्र तथा जगदपि ध्रुवे ।
लीढं मज्जिह्वया नित्यं करोतु नीजनाम सः ॥ ५ ॥
स्वस्तना नैव विषया दुःखसंभिन्नसौख्यदाः ।
घ्य़ात्वाप्यैवं तत्र सक्तं मुक्तिमार्गाध्वगं कुरु ॥ ६ ॥
रोदिमि क्क शुगामीढहृदयो.अहं दयानिधे ।
कस्याद्रमस्तु हृदयं त्वां विना मयि शङ्करः ॥ ७ ॥
विघ्नेश्वरगुहाश्लिष्टवामदशिणभाग भाक ।
विद्यां मे दिशतु ब्रह्मविषयां गिरिजापतिः ॥ ८ ॥
जपध्यानार्च्नस्तोत्रवन्दनैः सुरभूसुराः ।
यं तोषयन्ति सततं स शिवो नः प्रसीदतु ॥ ९ ॥
यतच्त्तैर्योगिवर्यैध्यायमानपदाम्बुजम ।
यमभीतिविनाशाय याम्यहं शरणं शिवम ॥ १० ॥
तेनैव पाविता पृथ्वी तेनैव कुलमुद्धृतम ।
येन शंभो पदाम्भोजयुगले स्वार्पितं मनः ॥ ११ ॥
चन्द्रमौलीश्वरस्तोत्रं भक्त्या यः पठति प्रगे ।
तस्य श्रीचन्द्रमौलीशः काङ्शितानि प्रयच्च्हति ॥ १२ ॥
चन्द्रशेखरअष्टकस्तोत्रम
चन्द्रशेखरअष्टकस्तोत्रम ।
चन्द्रशेखर चन्द्रशेखर
चन्द्रशेखर पाहि माम ।
चन्द्रशेखर चन्द्रशेखर
चन्द्रशेखर रक्ष माम ॥१॥
रत्नसानुशरासनं रजताद्रिशृङ्गनिकेतनं
सिञ्जिनीकृतपन्नगेश्वरमच्युताननसायकम ।
क्षिप्रदग्धपुरत्रयं त्रिदिवालयैरभिवन्दितं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥२॥
पञ्चपादपपुष्पगन्धपदांबुजद्वयशोभितं
भाललोचनजातपावकदग्धमन्मथविग्रहम ।
भस्मदिग्धकलेबरं भव नाशनं भवमव्ययं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥३॥
मत्तवारणमुख्यचर्मकॄतोत्तरीयमनोहरं
पङ्कजासनपद्मलोचनपूजितांघ्रिसरोरुहम ।
देवसिन्धुतरङ्गसीकर सिक्तशुभ्रजटाधरं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥४॥
यक्षराजसखं भगाक्षहरं भुजङ्गविभूषणं
शैलराजसुतापरिष्कृतचारुवामकलेबरम ।
क्ष्वेडनीलगलं परश्वधधारिणं मृगधारिणं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥५॥
कुण्डलीकृतकुण्डलेश्वर कुण्डलं वृषवाहनं
नारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम ।
अन्धकान्तकमाश्रितामरपादपं शमनान्तकं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥६॥
भेषजं भवरोगिणामखिलापदामपहारिणं
दक्षयज्ञविनाशनं त्रिगुणात्मकं त्रिविलोचनम ।
भुक्तिमुक्तिफलप्रदं सकलाघसंघनिबर्हणं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥७॥
भक्तवत्सलमर्चितं निधिक्षयं हरिदंबरं
सर्वभूतपतिं परात्परमप्रमेयमनुत्तमम ।
सोमवारिदभूहुताशनसोमपानिलखाकृतिं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥८॥
विश्वसृष्टिविधायिनं पुनरेव पालनतत्परं
संहरन्तमपि प्रपञ्चमशेषलोकनिवासिनम ।
कीडयन्तमहर्निशं गणनाथयूथसमन्वितं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥९॥
मृत्युभीतमृकण्डुसूनुकृतस्तवं शिवसन्निधौ
यत्र कुत्र च यः पठेन्न हि तस्य मृत्युभयं भवेत ।
पूर्णमायुररोगतामखिलार्थसंपदमादरात
चन्द्रशेखर एव तस्य ददाति मुक्तिमयत्नतः ॥१०॥
इति श्रीचन्द्रशेखराष्टकस्तोत्रं संपूर्णम ॥