शुक्रवार, 29 जुलाई 2016

गोष्ठेश्वराष्टकम

गोष्ठेश्वराष्टकम
सत्यज्ञानमनन्तमद्वयसुखाकारं गुहान्तःस्थित\-
श्रीचिद्व्योम्नि चिदर्करूपममलं यद ब्रह्म तत्त्वं परम .
निर्बीजस्थलमध्यभागविलसद्गोष्ठोत्थवल्मीक\-
संभूतं सत पुरतो विभात्यहह तद्गोष्ठेशलिण्गात्मना .. १..
सर्वज्ञत्वनिदानभूतकरुणामूर्तिस्वरूपामला
चिच्च्हक्तिर्जडशक्तिकैतववशात काञ्चीनदीत्वं गता .
वल्मीकाश्रयगोष्ठनायकपरब्रह्मैक्यकर्त्री मुहुः
नृणां स्नानकृतां विभाति सततं श्रीपिप्पिलारण्यगा .. २..
श्रीमद्राजतशैलशृण्गविलसच्च्ह्रीमद्गुहायां मही\-
वार्वह्न्याशुगखात्मिकी विजयते या पञ्चलिण्गाकृतिः .
सैवाशक्तजनेषु भूरिकृपया श्रीपिप्पिलारण्यगे
वल्मीके किल गोष्ठनायकमहालिण्गात्मना भासते .. ३..
यत्राद्याप्यणिमादिसिद्धिनिपुणाः सिद्धेश्वराणां गणाः
तत्तद्दिव्यगुहासु सन्ति यमिदृग्दृश्या महावैभवाः .
यत्रैव ध्वनिरर्धरात्रसमये पुण्यात्मभिः श्रूयते
पूजावाद्यसमुत्थितः सुमनसां तं राजताद्रिं भजे .. ४..
श्रीमद्राजतपर्वताकृतिधरस्यार्धेन्दुचूडामणे\-
र्लोमैकं किल वामकर्णजनितं काञ्चीतरुत्वं गतम .
तस्मादुत्तरवाहिनी भुवि भवान्याख्या ततः पूर्वगा
काञ्चीनद्यभिधा च पश्चिमगता निलानदी पावनी .. ५..
श्रीमद्भार्गवहस्तलग्नपरशुव्याघट्टनाद दारिते
क्षोणीध्रे सति वामदक्षिणगिरिद्वन्द्वात्मना भेदिते .
तन्मध्यप्रथिते विदारधरणीभागेतिनद्याश्रये
सा नीलातटिनी पुनाति हि सदा कल्पादिगान प्राणिनः .. ६..
कल्पादिस्थलमध्यभागनिलये श्रीविश्वनाथाभिधे
लिण्गे पिप्पिलकाननान्तरगतश्रीगोष्ठनाथाभिधः .
श्रीशंभुः करुणानिधिः प्रकुरुते सांनिध्यमन्यादृशं
तत्पत्नी च विराजते.अत्र तु विशालाक्षीति नामाण्किता .. ७..
श्रीकाञ्चीतरुमूलपावनतलं भ्राजत्त्रिवेण्युद्भवं
त्यक्त्वान्यत्र विधातुमिच्च्हति मुहुर्यस्तीर्थयात्रादिकम .
सो.अयं हस्तगतं विहाय कुधिया शाखाग्रलीनं वृथा
यष्ट्या ताडितुमीहते जडमतिर्निःसारतुच्च्हं फलम .. ८..
श्रीमद्राजतशैलोत्थत्रिवेणीमहिमाण्कितम .
गोष्ठेश्वराष्टकमिदं सारज्ञैरवलोक्यताम .. ९..
इति गोष्ठेश्वराष्टकं संपूर्णम.

कोई टिप्पणी नहीं: