सोमवार, 17 जुलाई 2017

चन्द्रशेखर अष्टक स्तोत्रम



चन्द्रशेखर अष्टक स्तोत्रम

Chandrashekara Ashtaka Stotram


चन्द्रशेखरअष्टकस्तोत्रम ।
चन्द्रशेखर चन्द्रशेखर 
चन्द्रशेखर पाहि माम । 
चन्द्रशेखर चन्द्रशेखर 
चन्द्रशेखर रक्ष माम ॥१॥ 
रत्नसानुशरासनं रजताद्रिशृङ्गनिकेतनं 
सिञ्जिनीकृतपन्नगेश्वरमच्युताननसायकम । 
क्षिप्रदग्धपुरत्रयं त्रिदिवालयैरभिवन्दितं 
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥२॥ 
पञ्चपादपपुष्पगन्धपदांबुजद्वयशोभितं 
भाललोचनजातपावकदग्धमन्मथविग्रहम । 
भस्मदिग्धकलेबरं भव नाशनं भवमव्ययं 
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥३॥ 
मत्तवारणमुख्यचर्मकॄतोत्तरीयमनोहरं  
पङ्कजासनपद्मलोचनपूजितांघ्रिसरोरुहम । 
देवसिन्धुतरङ्गसीकर सिक्तशुभ्रजटाधरं 
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥४॥ 
यक्षराजसखं भगाक्षहरं भुजङ्गविभूषणं 
शैलराजसुतापरिष्कृतचारुवामकलेबरम । 
क्ष्वेडनीलगलं परश्वधधारिणं मृगधारिणं 
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥५॥ 
कुण्डलीकृतकुण्डलेश्वर कुण्डलं वृषवाहनं 
नारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम । 
अन्धकान्तकमाश्रितामरपादपं शमनान्तकं  
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥६॥ 
भेषजं भवरोगिणामखिलापदामपहारिणं 
दक्षयज्ञविनाशनं त्रिगुणात्मकं त्रिविलोचनम । 
भुक्तिमुक्तिफलप्रदं सकलाघसंघनिबर्हणं 
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥७॥ 
भक्तवत्सलमर्चितं निधिक्षयं हरिदंबरं 
सर्वभूतपतिं परात्परमप्रमेयमनुत्तमम । 
सोमवारिदभूहुताशनसोमपानिलखाकृतिं 
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥८॥ 
विश्वसृष्टिविधायिनं पुनरेव पालनतत्परं 
संहरन्तमपि प्रपञ्चमशेषलोकनिवासिनम । 
कीडयन्तमहर्निशं गणनाथयूथसमन्वितं 
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥९॥ 
मृत्युभीतमृकण्डुसूनुकृतस्तवं शिवसन्निधौ 
यत्र कुत्र च यः पठेन्न हि तस्य मृत्युभयं भवेत । 
पूर्णमायुररोगतामखिलार्थसंपदमादरात 
चन्द्रशेखर एव तस्य ददाति मुक्तिमयत्नतः ॥१०॥ 
इति श्रीचन्द्रशेखराष्टकस्तोत्रं संपूर्णम ॥

कोई टिप्पणी नहीं: