शिवस्तोत्रम.ह
ॐ नमः शिवाय.
निखिलभुवनजन्मस्थमभङ्गप्ररोहाः
अकलितमहिमानः कल्पिता यत्र तस्मिन.ह .
सुविमलगगनाभे ईशसंस्थे.अप्यनीशे
मम भवतु भवे.अस्मिन.ह भासुरो भावबन्धः ..
निहतनिखिलमोहे.अधीशता यत्र रूढा
प्रकटितपरप्रेम्ना यो महादेव संघ्य़ः .
अशिथिलपरिरम्भः प्रेमरूपस्य यस्य
प्रणयति हृदि विश्वं व्याजमात्रं विभुत्वम.ह ..
वहति विपुलवातः पूर्व संस्काररूपः
प्रमथति बलवृंदं घूर्णितेवोर्मिमाला .
प्रचलति खलु युग्मं युश्ह्मदस्मत्प्रतीतम.ह
अतिविकलितरूपं नौमि चित्तं शिवस्थम.ह ..
जनकजनितभावो वृत्तयः संस्कृताश्च
अगणनबहुरूपा यत्र एको यथार्थः .
शमितविकृतवाते यत्र नांतर्बहिश्च
तमहह हरमौडे चित्तवृत्तेर्निरोधम.ह ..
गलिततिमिरमालः शुभ्रतेजःप्रकाशः
धवलकमलशोभः घ्य़ानपुञ्जाट्टहासः .
यमिजनहृदिगम्यः निश्ह्कलं ध्यायमानः
प्रणतमवतु मं सः मानसो राजहंसः ..
दुरितदलनदक्शं दक्शजादत्तदोश्हम.ह
कलितकलिकलङ्कं कम्रकल्हारकांतम.ह .
परहितकरणाय प्राणविच्च्हेदसूत्कम.ह
नतनयननियुक्तं नीलकंठं नमामः ..
- स्वामि विवेकानन्द.
रविवार, 14 अगस्त 2016
शिवस्तोत्रम.ह
सदस्यता लें
टिप्पणियाँ भेजें (Atom)
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें