बुधवार, 3 अगस्त 2016

निर्गुण मानसपूजा

.. निर्गुण मानसपूजा ..
  (शन्कर बगवत्पाद)
अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि .
स्थिते.अद्वितीयभावे.अपि कथं पूजा विधीयते  .. १..
पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम.ह  .
स्वच्च्हस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः  .. २..
निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च  .
अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम.ह  .. ३..
निर्लेपस्य कुतो गन्धः पुश्ह्पं निर्वासनस्य च  .
निर्विशेश्हस्य का भूश्हा को.अलण्‍कारो निराकृतेः  .. ४..
निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्शिणः  .
निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह  .. ५..
विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्पते  .
स्वयंप्रकाशचिद्रूपो यो.असावर्कादिभासकः  .. ६..
गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः  .
प्रदक्शिणमनन्तस्य प्रणामो.अद्वयवस्तुनः  .. ७..
वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते  .
अन्तर्बहिः संस्थितस्य उद्वासनविधिः कुतः  .. ८..
गुरुरुवाच ..
आराधयामि मणिसंनिभमात्मलिन्ण्‍गम.ह
मायापुरीहृदयपण्‍कजसंनिविश्ह्टम.ह  .
श्रद्धानदीविमलचित्तजलाभिश्हेकै\-
नि.र्त्यं समाधिकुसुमैर्नपुनर्भवाय  .. ९..
अयमेको.अवशिश्ह्टो.अस्मीत्येवमावाहयेच्च्हिवम.ह  .
आसनं कल्पयेत्पश्चात्स्वप्रतिश्ह्ठात्मचिन्तनम.ह  .. १०..
पुण्यपापरजःसण्‍गो मम नास्तीति वेदनम.ह .
पाद्यं समर्पयेद्विद्वन्सर्वकल्मश्हनाशनम.ह  .. ११..
अनादिकल्पविधृतमूलाघ्य़ानजलाञ्जलिम.ह  .
विसृजेदात्मलिण्‍गस्य तदेवार्घ्यसमर्पणम.ह  .. १२..
ब्रह्मानन्दाब्धिकल्लोलकणकोट्यंशलेशकम.ह .
पिबन्तीन्द्रादय इति ध्यानमाचमनं मतम.ह  .. १३..
ब्रह्मानन्दजलेनैव लोकाः सर्वे परिप्लुताः  .
अच्च्हेद्यो.अयमिति ध्यानमभिश्हेचनमात्मनः  .. १४..
निरावरणचैतन्यं प्रकाशो.अस्मीति चिन्तनम.ह  .
आत्मलिण्‍गस्य सद्वस्त्रमित्येवं चिन्तयेन्मुनिः  .. १५..
त्रिगुणात्माशेश्हलोकमालिकासूत्रमस्म्यहम.ह  .
इति निश्चयमेवात्र ह्युपवीतं परं मतम.ह  .. १६..
अनेकवासनामिश्रप्रपञ्चो.अयं धृतो मया  .
नान्येनेत्यनुसन्धानमात्मनरचन्दनं भवेत.ह  .. १७..
रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्शतैः  .
आत्मलिण्‍गं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये  .. १८..
ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः  .
बिल्वपत्रैरद्वितीयैरात्मलिण्‍गं यजेच्च्हिवम.ह  .. १९..
समस्तवासनात्यागं धूपं तस्य विचिन्तयेत.ह  .
ज्योतिर्मयात्मविघ्य़ानं दीपं सन्दर्शयेद्बुधः  .. २०..
नैवेद्यमात्मलिण्‍गस्य ब्रह्माण्डाख्यं महोदनम.ह  .
पिबानन्दरसं स्वादु मृत्युरस्योपसेचनम.ह  .. २१..
अघ्य़ानोच्च्हिश्ह्टकरस्य क्शालनं घ्य़ानवारिणा  .
विशुद्धस्यात्मलिण्‍गस्य हस्तप्रक्शालनं स्मरेत.ह  .. २२..
रागादिगुणशून्यस्य शिवस्य परमात्मनः  .
सरागविश्हयाभ्यासत्यागस्ताम्बूलचर्वणम.ह  .. २३..
अघ्य़ानध्वान्तविध्वंसप्रचण्डमतिभास्करम.ह  .
आत्मनो ब्रह्मताघ्य़ानं नीराजनमिहात्मनः  .. २४..
विविधब्रह्मसंदृश्ह्टिर्मालिकाभिरलण्‍कृतम.ह  .
पूर्णानन्दात्मतादृश्ह्टिं पुश्ह्पाञ्जलिमनुस्मरेत.ह  .. २५..
परिभ्रमन्ति ब्रह्माण्डसहस्राणि मयीरवरे  .
कूटस्थाचलरूपो.अहमिति ध्यानं प्रदक्शिणम.ह  .. २६..
विश्ववन्द्यो.अहमेवास्मि नास्ति वन्द्यो मदन्यतः  .
इत्यालोचनमेवात्र स्वात्मलिण्‍गस्य वन्दनम.ह  .. २७..
आत्मनः सत्क्रिया प्रोक्ता कर्तव्याभावभावना  .
नामरूपव्यतीतात्मचिन्तनं नामकीर्तनम.ह  .. २८..
श्रवणं तस्य देवस्य श्रोतव्याभावचिन्तनम.ह  .
मननं त्वात्मलिण्‍गस्य मन्तव्याभावचिन्तनम.ह  .. २९..
ध्यातव्याभावविघ्य़ानं निदिध्यासनमात्मनः  .
समस्तभ्रान्तिविक्शेपराहित्येनात्मनिश्ह्ठता  .. ३०..
समाधिरात्मनो नाम नान्यच्चित्तस्य विभ्रमः .
तत्रैव बह्मणि सदा चित्तविश्रान्तिरिश्ह्यते  .. ३१..
एवं वेदान्तकल्पोक्तस्वात्मलिण्‍गप्रपूजनम.ह  .
कुर्वन्ना मरणं वापि क्शणं वा सुसमाहितः  .. ३२..
सर्वदुर्वासनाजालं पदपांसुमिव त्यजेत.ह  .
विधूयाघ्य़ानदुःखौघं मोक्शानन्दं समश्नुते  .. ३३..
.. इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपाद
शिश्ह्यस्य श्रीमच्च्हण्‍करभगवतः विरचिता निर्गुणमानसपूजा समाप्त ..

कोई टिप्पणी नहीं: