बुधवार, 3 अगस्त 2016

निर्वाणमञ्चरि .. (शन्कर बगवत्पाद)

निर्वाणमञ्चरि ..
(शन्कर बगवत्पाद)
अहं नामरो नैव मर्त्यो न दैत्यो
   न गन्धर्वयक्शः पिशाचप्रभेदः .
पुमान्नैव न स्त्री तथा नैव श्हण्डः
   प्रकृश्ह्टः प्रकाशस्वरूपः शिवो.अहम.ह .. १..
अहं नैव बालो युवा नैव वृद्धो
   न वर्णी न च ब्रह्मचारी गृहस्थः .
वनस्थो.अपि नाहं न संन्यस्तधर्मा
   जगज्जन्मनाशैकहेतुः शिवो.अहम.ह .. ३..
अहं नैव मेयस्तिरोभूतमाया
   तथैवेक्शितुं मां पृथङ्नास्त्युपायः .
समाश्लिश्ह्टकायत्रयो.अप्यद्वितीयः
   सदातीन्द्रियः सर्वरूपः शिवो.अहम.ह .. ३..
अहं नैव मन्ता न गन्ता न वक्ता
   न कर्ता न भोक्ता न मुक्ताश्रमस्थः .
यथाहं मनोवृत्तिभेदस्वरूप\-
   स्तथा सर्ववृत्तिप्रदीपः शिवो.अहम.ह .. ४..
न मे लोकयात्राप्रवाहप्रवृत्ति\-
   र्न मे बन्धबुद्ध्या दुरीहानिवृत्तिः .
प्रवृत्तिर्निवृत्त्यास्य चित्तस्य वृत्ति\-
   र्यतस्तन्वहं तत्स्वरूपः शिवो.अहम.ह .. ५..
निदानं यदज्ञानकार्यस्य कार्यं
   विना यस्य सत्त्वं स्वतो नैव भाति .
यदाद्यन्तमध्यान्तरालान्तराल\-
   प्रकाशात्मकं स्यात्तदेवाहमस्मि .. ६..
यतो.अहं न बुद्धिर्न मे कार्यसिद्धि\-
   र्यतो नाहमङ्गं न मे लिङ्गभङ्गम.ह .
हृदाकाशवर्ती गताङ्गत्रयार्तिः
   सदा सच्चिदानन्दमूर्तिः शिवो.अहम.ह .. ७..
यदासीद्विलासाद्विकारं जगद्य\-
   द्विकराश्रयं नाद्वितीयत्वतः स्यात.ह .
मनोबुद्धिचित्ताहमाकारवृत्ति\-
   प्रवृत्तिर्यतः स्यात्तदेवाहमस्मि .. ८..
यदन्तर्बहिर्व्यापकं नित्यशुद्धं
   यदेकं सदा सच्चिदानन्दकन्दम.ह .
यतः स्थूलसूक्श्मप्रपञ्चस्य भानं
   यतस्तत्प्रसूतिस्तदेवाहमस्मि .. ९..
यदर्केन्दुविद्युत्प्रभाजालमाला\-
   विलासास्पदं यत्स्वभेदादिशून्यम.ह .
समस्तं जगद्यस्य पादात्मकं स्या\-
   द्यतः शक्तिभानं तदेवाहमस्मि .. १०..
यतः कालमृत्युर्बिभेति प्रकामं
   यतश्चित्तबुद्धीन्द्रियाणां विलासः .
हरिब्रह्मरुद्रेन्द्रचन्द्रादिनाम\-
   प्रकाशो यतः स्यात्तदेवाहमस्मि .. ११..
यदाकाशवत्सर्वगं शान्तरूपं
   परं ज्योतिराकारशून्यं वरेण्यम.ह .
यदाद्यन्तशून्यं परं शङ्कराख्यं
   यदन्तर्विभाव्यं तदेवाहमस्मि .. १२..
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिश्ह्यस्य
श्रीमच्च्हङ्करभगवत्पाद कृतौ
निर्वाणमञ्जरी संपूर्णा ..

कोई टिप्पणी नहीं: