.. तत्त्वार्यास्तवः ..
शिवकामसुन्दरीशं शिवगण्गातीरकल्पितनिवेशम .
शिवमाश्रये द्युकेशं शिवमिच्च्हन्मा वपुष्यभिनिवेशम .. १..
गीर्वाणचक्रवर्ती गीश्चेतोमार्गदूरतोवर्ती .
भक्ताशयानुवर्ती भवतु नटेशो.अखिलामयनिवर्ती .. २..
वैयाघ्रपादभाग्यं वैयाघ्रं चर्म कंचन वसानम .
वैयाकरणफणीड्यं वैयासिक्या गिरा स्तुतं प्रणुमः .. ३..
हाटकसभानिवासः शाटकतापन्नसकलहरिदन्तः .
घोटकनिगमो मायानाटकसाक्षी जगत्पतिर्जयति .. ४..
शैलूषराजमाद्यं मालूरप्रसवमालिकाभरणम .
पीलूपमो.अन्धुजीर्यच्च्हालूराभः कथं विजानीयाम .. ५..
कनकसभैकनिकेतं कठिनपुराणोक्तिसारसंकेतम .
नाराधयन्ति के तं नारायण्या युतं स्वतोकेतम .. ६..
तिल्लवने क्षुल्लवने पल्लवसंभिन्नफुल्लपुष्पघने .
चिल्लहरीमुल्ललयन वल्लभया भिल्लतल्लजो नटति .. ७..
वैराजहृत्सरोजे वैराजाद्यैः स सामभिः स्तव्यः .
वैराग्यादिगुणाढ्यैः वैराद्युत्सृज्य दृश्यते नृत्यन .. ८..
ढक्कानिनदैः सूत्राण्यण्गदनादैरहो महद्भाष्यम .
व्याकरणस्य विवृण्वन नृत्यति भृत्यान कृतार्थयन मर्त्यान .. ९..
नटनायक नटनाय क इह सुकृती नो तव स्पृहयेत .
मन्ञुलतामञ्जुलतामहिते वस्तुं च तिल्लवने .. १०..
अतिदुरितोत्तारकृते चिरधृतहर्षः सभापतिः सद्यः .
अगणेयाघघनं मामासाद्यानन्दमेदुरो नटति .. ११..
मत्पादलग्नजनतामुद्धर्तास्मीति चित्सभानाथः .
ताण्डवमिषोद्धृतैकसवाण्घ्रिः सर्वान विबोधयति .. १२..
आपन्नलोकपालिनि कपालिनि स्त्रीकृताण्गपालिनि मे .
शमितविधिश्रीशरणे शरणा धीरस्तु चित्सभाशरणे .. १३..
भिक्षुर्महेश्वरो.अपि श्रुत्या प्रोक्तः शिवो.अप्युग्रः .
अपि भवहारी च भवो नटो.अपि चित्रं सभानाथः .. १४..
नृत्यन्नटेशमौलित्वण्गद्गण्गातरण्गशीकरिणः .
भूषाहिपीतशिष्टाः पुनन्तु मां तिल्लवनवाताः .. १५..
कनकसभासम्राजो नटनारम्भे झलंझलंझलिति .
मञ्जीरमञ्जुनिनदा ध्वनियुः श्रोत्रे कदा नु मम .. १६..
पर्वतराजतनूजाकुचतटसंक्रान्तकुण्कुमोन्मिश्राः .
नटनार्भटीविधूता भूतिकणास्ते स्पृशेयुरपि मे.अण्गम .. १७..
नटनोच्चलत्कपालामर्दितचन्द्रक्षरत्सुधामिलिताः .
आदिनटमौलितटिनीपृषतो गोत्रे.अत्र मे स्खलेयुः किम .. १८..
पश्यानि सभाधीशं कदा नु तं मूर्धनि सभाधीशम .
यः क्षयरसिकं कालं जितवान धत्ते च शिरसि कण्कालम .. १९..
तनुजायातनुजायासक्तानां दुर्लभं सभानाथम .
नगतनया नगतनया वशयति दत्त्वा शरीरार्धम .. २०..
आनन्दताण्डवं यस्तवेश पश्येन्न चापि नृगणे यः .
स च स च न चन्द्रमौले विद्वद्भिर्जन्मवत्सु विगणेयः .. २१..
कामपरवशं कृत्वा कामपरवशं त्वकृत्वा माम .
कनकसभां गमयसि रे कनकसभां हा न यापयसि .. २२..
नटनं विहाय शंभोर्घटनं पीनस्तनीभिराशास्से .
अटनं भवे दुरन्ते विट नन्दसि न स्वभूमसुखम .. २३..
कलितभवलण्घनानां किं करैव चित्सुखघनानाम .
सुमुदां सापघनानां शिवकामेश्याः कृपामृतघनानाम .. २४..
निनिलीये मायायां न विलिये वा शुचा परं लीये .
आनन्दसीमनि लसत्तिल्लवनीधामनि स्वभूमनि तु .. २५..
अधिहेमसभं प्रसभं बिसभण्गवदान्यधन्यरुचम .
श्रुतगलगरलं सरलं निरतं भक्तावने भजे देवम .. २६..
सभया चित्सभयासीन्माया मायाप्रबोधशीतरुचेः .
सुहिता धीः सुहिता मे सोमा सोमार्धधारिणी मूर्तिः .. २७..
पत्या हेमसभायाः सत्यानन्दैकचिद्वपुषा .
कत्यार्ता न त्राता नृत्यायत्तेन मादृशा मर्त्याः .. २८..
भजतां मुमुक्षया त्वां नटेश लभयास्त्रयः पुमर्थाश्च .
फललिप्सयाम्रभाजां च्हायासौरभ्यमाधव्य इव .. २९..
कञ्चुकपञ्चकनद्धं नटयसि मां किं नटेश नाटयसि .
नटसि निरावृतिसुखितो जहि मायां त्वादृशो.अहमपि तत स्याम .. ३०..
आस्तां नटेश तद्यन्नटति भवानम्बरे निरालम्बे .
त्वन्नटने.अपि हि नटनं वेदपुरानागमाः समादधति .. ३१..
वेधसि सर्वाधीशे.अमेधसि वा मादृशे सरूपकृता .
रोधसि शिवगण्गाया बोधसिरा काचिदुल्लसति .. ३२..
हट्टायितं विमुक्तेः कुट्टाकं तं भजामि मायायाः .
भट्टारकं सभायाः किट्टात्मन्यण्गके त्यजन्ममताम .. ३३..
श्रीमच्चिदम्बरेशादन्यत्रानन्दताण्डवासक्तात .
ब्राह्मं लक्षणमास्ते कुत्रचिदानन्दरूपता देवे .. ३४..
क्षुल्लककामकृते.अपि त्वत्सेवा स्याद्विमुक्तिमपि दात्री .
पीतामृतो.अप्युदन्याशान्त्यै स्याच्चित्सभाधिपामर्त्यः .. ३५..
सत्यं सत्यं गत्यन्तरमुत्सृज्य ते पदापात्यम .
अत्यन्तार्तं भृत्यं न त्यज नित्यं नटेश मां पाहि .. ३६..
षट्त्रिंशता तत्त्वमयीभिराभिः सोपानभूताभिरुमासहायम .
आर्याभिराद्यं परतत्त्वभूतं चिदम्बरानन्दनटं भजध्वम .. ३७..
.. इति श्रीतत्त्वार्यास्तवः संपूर्णः ..
मंगलवार, 2 अगस्त 2016
तत्त्वार्यास्तवः
सदस्यता लें
टिप्पणियाँ भेजें (Atom)
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें