. श्री मार्गसहायलिङ्ग स्तुतिः ..
॥ श्रीमद अप्पय्यदीशितेन्द्रैः विरचिता ॥
पयो\-नदीतीर निवासलिङ्गं बालार्क\-कोटि प्रतिमं त्रिनेत्रम ।
पद्मासनेनार्चित दिव्यलिङ्गं वन्दामहे मार्गसहायलिङ्गम ॥ १॥
गङ्गातरङ्गोल्लसदुत्तमाङ्गं गजेन्द्र\-चर्मांबर भूषिताङ्गम ।
गौरी\-मुखांभोज\-विलोल\-भृङ्गं वन्दामहे मार्गसहायलिङ्गम ॥ २॥
सुकङ्कणीभूत महाभुजङ्गं संञान\-संपूर्ण\-निजान्तरङ्गम ।
सूर्येन्दु\-बिंबानल\-भूषिताङ्गं वन्दामहे मार्गसहायलिङ्गम ॥ ३॥
भक्तप्रियं भावविलोलभृङ्गं भक्तानुकूलामल भूषिताङ्गम ।
भावैक\-लोक्यान्तरमादिलिङ्गं वन्दामहे मार्गसहायलिङ्गम ॥ ४॥
सामप्रियं सौम्य महेशलिङ्गं सामप्रदं सौम्य\-कटाशलिङ्गम ।
वामाङ्ग\-सौन्दर्य\-विलोलिताङ्गं वन्दामहे मार्गसहायलिङ्गम ॥ ५॥
पञ्चाशरी\-भूत\-सहस्रलिङ्गं पञ्चामृतस्नान\-परायणाङ्गम ।
पञ्चामृतांभोज\-विलोल\-भृङ्गं वन्दामहे मार्गसहायलिङ्गम ॥ ६॥
वन्दे सुराराधित\-पादपद्मं श्रीश्यामवल्ली\-रमणं महेशम ।
वन्दे महामेरु\-शरासनं शिवं वन्दा सदा मार्गसहायलिङ्गम ॥ ७॥
॥ इति श्री मार्गसहायलिङ्ग स्तुतिः संपूर्णा ॥
॥ ॐ तत्सत ॥
शनिवार, 6 अगस्त 2016
श्री मार्गसहायलिङ्ग स्तुतिः
सदस्यता लें
टिप्पणियाँ भेजें (Atom)
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें